Sbg 17.26 scram
Sanskrit Commentary By Sri Ramanuja ।।17.26।। सद्भावे विद्यमानतायां साधुभावे कल्याणभावे च सर्ववस्तुषु सद् इति एतत् पदं प्रयुज्यते लोकवेदयोः। तथा केनचित् पुरुषेण अनुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्म इदम् इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः।