Sbg 17.25 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।17.25।।द्वितीयं नाम प्रस्तौति -- तदिति। तदित्युदाहृत्येति पूर्वस्यानुषङ्गः। तदित्युदाहृत्य शुद्धचित्तैर्मोक्षकाङक्षिभिपुरुषैः फलाभिसंधिमकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते अतश्चित्तशोधनद्वारेण फलसंकल्पत्याजनेन मुमुक्षुत्वसंपादकत्वात्तच्छब्दनिर्देशः प्रशस्त इत्यर्थः।