Sbg 17.25 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.25।।द्वितीयं तच्छब्दं व्याचष्टे -- तदिति। तत्त्वमसीत्यादिश्रुतिप्रसिद्धं तदिति ब्रह्मणो नामोदाहृत्य फलमनभिसंधायान्तःकरणशुद्ध्यर्थं यज्ञतपःक्रिया दानक्रियाश्च विविधा मोक्षकाङ्क्षिभिः क्रियन्ते तस्मादतिप्रशस्तमेतत्।