Sbg 17.25 scval
Sanskrit Commentary By Sri Vallabhacharya ।।17.25।।तदिति। तत्पदवाच्यं हि ब्रह्म? तत्सवितुरितिसर्वः कः किं यत्तत्पदमनुत्तमं [13।149।93] इति भारतसहस्रनामोक्तेः ब्रह्मैव फलमिति लौकिकं यत्तत्फलमनभिसन्धायात्र ब्रह्मवाचिना तदितिशब्देन निर्देश्या यज्ञादिक्रियाः क्रियन्ते मोक्षकाङ्क्षिभिरेव। अन्यैस्त्वन्यथेति निर्णयः।