Sbg 17.24 scneel
Sanskrit Commentary By Sri Neelkanth ।।17.24।।यस्मादेतन्नामत्रयपूर्वकं एतेषां विधानं सर्गादौ दृष्टं तस्मात्ित्रष्वेतेषु नामसु ओमित्येकमेव नाम उदाहृत्य ब्रह्मवादिनां वैदिकानां विधानोक्ताः वेदोक्ताः यज्ञादयः क्रियाः सततं प्रवर्तन्ते। तथा च श्रुतिःमिति ब्रह्मा प्रसौति मिति शास्त्राणि शंसन्ति मित्यध्वर्युः प्रतिगरं प्रतिगृणाति मिति सामानि गायन्ति इति यज्ञे सर्वेषामृत्विजां क्रिया कारपूर्विक इत्येतद्दर्शयति।