Sbg 17.24 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha [17.24] इति ह्यनन्तरमुच्यते। तेनैव प्रणवान्वयप्रकारोऽपि सूचित इत्यभिप्रायेणाऽऽह -- वेदान्वयिनस्त्रैवर्णिका इति।विहिताः इत्यस्य कर्त्रपेक्षायांचातुर्वर्ण्यं मया सृष्टम् [4।13] इत्यादिपरामर्शेनाऽऽहपुरा मयैव निर्मिता इति। वेदानां विहितत्वं यथापूर्वं प्रवर्तितत्वं? यो वै वेदांश्च प्रहिणोति तस्मै [श्वे.उ.6।18]अनादिनिधना ह्येषा वागुत्सृष्टा [म.भा.12।232।24कू.पु.पू.2।30] इत्यादिश्रुतिस्मृतिभिस्तन्नित्यत्वसिद्धेः।
।।17.24।।तस्मात् इत्यादीनां चतुर्णां श्लोकानां प्रकृतप्रपञ्चनरूपतामाह -- त्रयाणामिति। ब्राह्मणवेदयज्ञानामित्यर्थः। यज्ञशब्दोऽत्र तपोदानादीनामुपलक्षकः? यज्ञतपःक्रिया इत्यादि ह्यनन्तरमुच्यते। अनुष्ठानस्वरूपानुप्रवेशात्तत्रापि प्राथम्याच्चात्रापि प्रथममोङ्कारस्योक्तिरित्यभिप्रायेणाऽऽहप्रथममिति।तस्मादिति -- सर्वस्रष्ट्रा मया तदैव तदन्वितत्वेन विहितत्वादित्यर्थः। करणव्युत्त्पत्त्या विधानमिह वैदिकं विधायकवाक्यमित्याहवेदविधानोक्ता इति। यज्ञदानादीनामोङ्कारपूर्वकत्वं तत्तद्विधायकैः सिद्धमित्यभिप्रायेणाऽऽह -- आदाविति। ओमित्युदाहरणं चात्र श्रुतवेदान्तानां सर्वान्तरपरब्रह्मानुसन्धानेन तत्समाराधनबुद्ध्याऽनुसन्धाय। स्मरति च भगवाञ्छौनकःहरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च [वि.ध.] इति अश्रुतवेदान्तानामपि तद्वाचकशब्दाभिधानान्मङ्गलादिलाभोऽर्थसिद्धः। एवं च प्रणवस्य वैदिकसमस्तान्वयसिद्धिः। यद्यपि वसन्ते वसन्ते ज्योतिषा यजेत शरदि वाजपेयेन यजेत इत्यादिभिः कालविशेषनियताः क्रिया विधीयन्ते तथापि सर्वासां क्रियाणां प्रणवपूर्वकत्वे तु न कालविशेषनियम इति सततशब्दतात्पर्यमित्यभिप्रायेणाऽऽहसर्वदेति। स्वर्गसाधनत्वेनानुष्ठाने अपवर्गसाधनत्वेनानुष्ठाने च प्रणवान्वयः साधारण इति भावः। अत्र श्लोके वेदानामनुपादानेऽपि पूर्वश्लोकेब्राह्मणास्तेन वेदाश्च [17।23] इत्युक्तत्वात् यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महेश्वरः [तै.ना.6।10।24]ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा। स्रवत्यनोंकृतं पूर्वम् [मनुः2।74] इत्याद्यनुसारेणाऽऽह -- वेदाश्चेति।विधानोक्ताः इत्यनेन ब्रह्मवाचिशब्देन च वेदानामप्यत्र श्लोके प्रणवान्वयः सूचित इत्यभिप्रायेणाऽऽह -- एवमिति। ओमित्युदाहरणकर्तृत्वव्यपदेशेन तदन्वितब्रह्मवादित्वव्यपदेशेन च ब्राह्मणानामप्योमितिशब्देनान्वयः प्रदर्शित एवेत्याह -- ओमितिशब्दान्वितवेदधारणादिति।