Sbg 17.24 scram
Sanskrit Commentary By Sri Ramanuja ।।17.24।। तस्माद् ब्रह्मवादिनां वेदवादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओम् इति उदाहृत्य सततं सर्वदा प्रवर्तन्ते। वेदाः चओम् इति उदाहृत्य आरभ्यन्ते।एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् इति शब्दान्वयो वर्णितः। ओम् इतिशब्दान्वितवेदधारणात् तदन्वितयज्ञादिकर्मकरणात् च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानाम् अपिओम् इति शब्दान्वयो वर्णितः।अथ एतेषांतत् इतिशब्दान्वयप्रकारम् आह --