Sbg 17.14 scdhan
Sanskrit Commentary By Sri Dhanpati ।।17.14।।एवं हानादानार्थ यज्ञत्रैविध्यं विभज्य तपसः सात्त्विकादिभावं निरुपयितुं सर्वस्य तस्य त्रिविधं स्वरुपं प्रथममाह त्रिभिः। देवाः ब्रह्मविष्णुशिवादयः? द्विजाः पूज्यत्वात् द्विजोत्तमाः? गुरवः पित्राचार्यादयः? प्राज्ञाः पण्डिताः विदितवेद्याः तेषां,प्रणामशुश्रूषादिना पूजनम्? शौचं मृज्जलाभ्यां शरीरशोधनं? आर्जवं ऋजुत्वं विहितनिषिद्धयोरेकरुपप्रवृत्तिनिवृत्तित्वम्? ब्रह्मचर्यं प्रतिषिद्धमैथुनासमाचरणम्? अहिंसा प्राणिनामपीडनम्। चकालोऽस्तेयादिसमुच्चयार्थः। शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैरेव कर्त्रादिभिः साध्यं शारीरं तप उच्यते।अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्टेष्टा दैवं चैवात्र पञ्चमम्।।शरीरवाङ्गनोभिर्यत्कर्म प्रारभते नरः। न्याध्यं वा विपरीतं वा पञ्चैते तस्य हेतवः इति वक्ष्यमाणत्वात्।