Sbg 17.10 scms

From IKS BHU
Revision as of 15:29, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.10।।यातयाममिति। यातयाममर्धपक्वम्। निर्वीर्यस्य गतरसपदेनोक्तत्वादिति भाष्यम्। गतरसं विरसतां प्राप्तं शुष्कं यातयामं पक्वं सत्प्रहरादिव्यवहितमोदनादि शैत्यं प्राप्तम्? गतरसमुद्धृतसारम्? मथितदुग्धादीत्यन्ये। पूति दुर्गन्धं? पर्युषितं पक्वं सद्रात्र्यन्तरितं? चेतसस्तत्कालोन्मादकरं धत्तूरादिसमुच्चयीयते यदतिप्रसिद्धं दुष्टत्वेन। उच्छिष्टं भुक्तावशिष्टम्? अमेध्यमयज्ञार्हमशुचि मांसादि। अपिचेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते। एतादृशं यद्भोजनं भोज्यं तत्तामसस्य प्रियं सात्त्विकैरतिदूरादुपेक्षणीयमित्यर्थः। एतादृशभोजनस्य दुःखशोकामयप्रदत्वमतिप्रसिद्धमिति कण्ठतो नोक्तम्। अत्र च क्रमेण रस्यादिवर्गः सात्त्विकः? कट्वादिवर्गो राजसः? यातयामादिवर्गस्तामस इत्युक्तमाहारवर्गत्रयं? तत्र सात्त्विकवर्गविरोधित्वमितरवर्गद्वये द्रष्टव्यम्। तथा ह्यतिकटुत्वादिकं रस्यत्वविरोधि? तादृशस्यानास्वाद्यत्वाद्रूक्षत्वं स्निग्धत्वविरोधि? तींक्ष्णत्वविदाहित्वे धातुपोषणविरोधित्वात्स्थिरत्वविरोधिनी? अत्युष्णत्वादिकं हृद्यत्वविरोधि? आमयप्रदत्वमायुःसत्त्वबलारोग्यविरोधि? दुःखशोकप्रदत्वं सुखप्रीतिविरोधि? एवं सात्त्विकवर्गविरोधित्वं राजसवर्गे स्पष्टम्। तथा तामसवर्गेऽपि गतरसत्वयातयामत्वपर्युषितत्वानि यथासंभवं रस्यत्वस्निग्धत्वस्थिरत्वविरोधीनि? पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्वविरोधीनि? आयुःसत्त्वादिविरोधित्वं तु स्पष्टमेव राजसवर्गे दृष्टविरोधमात्रं? तामसवर्गे तु दृष्टादृष्टविरोध इत्यतिशयः।