Sbg 17.9 scdhan
Sanskrit Commentary By Sri Dhanpati ।।17.9।।राजसप्रियाहारानुदाहरति -- कट्विति। अतिशब्दः कट्वादिषु सर्वेषु संबन्धनीयः। अतिकतुर्निम्बादिः? अत्यम्लं जम्बीरादि? अतिलवणं बहुक्षप्तिसैन्धवादि? अत्युष्णं मुखादिदाहकं? अतितीक्ष्णं मरीचादि? अतिरुक्षः स्नेहलेशेनापि? अत्यम्लं जम्बीरादि? अतिलवणं बहुक्षिप्तसैन्यवादि? अत्युष्णं मुखादिदाहकं? अतितीक्ष्णं मरीचादि? अतिरुक्षः स्नेहलेशेनापि रहितः कङ्गुकोद्रवादिः? अतिविदाही संतापकः सर्षपादिः? एवंविधा अतिकट्वादयो दुःखं तात्कालिकी पीडा? पश्चादुत्पन्नरोगे तज्जन्यं दौर्म नस्यं शोकः आमयो रोगः तान्प्रयच्छन्तीति दुःखशोकामयप्रदाः आहारा राजसप्रिया राजसस्येष्टा एतादृशाहारप्रतिमन्तो राजसा ज्ञातव्याः श्रेयोर्थिभिश्चैवंविधा आहाराः परिहरणीया इत्यर्थः।