Sbg 17.9 scneel
Sanskrit Commentary By Sri Neelkanth ।।17.9।। कट्विति। अतिशब्दः सर्वत्र संबध्यते। अतिकटु निम्बादि? अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः? अतितीक्ष्णो मरीचादि? अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः? अतिविदाही राजिकादिः? दुःखं तात्कालिकी पीडा? शोकः पश्चाद्भाविदौर्मनस्यम्? आमयो धातुवैषम्यापादनेन रोगस्तत्प्रदाः।