Sbg 17.9 scpur
Sanskrit Commentary By Sri Purushottamji
।।17.9।।राजसानाह -- कट्विति। अतिशब्दः सर्वत्रानुसम्बद्ध्यते कट्वादिषु। अतिकटुः कारवेल्लादिः? अत्यम्ल आम्रातकादिः? अतिलवणः क्षारबहुलरोचकशाकादिः? अत्युष्णः सबाष्पपक्वान्नादिः? अतितीक्ष्णो मरिचादिः? अतिरूक्षश्चणकमसूरकोद्रवादिः? अतिविदाही राजकादिः। एवमेतेऽतिकट्वादयः पञ्चयज्ञादिरहिताः स्वार्थकृता आहारा राजसस्येष्टाः प्रियाः। दुःखशोकामयप्रदाः दुःखं भक्षणसमय एव रसनाविकारादिरूपं? शोको भक्षणानन्तरमजीर्णोद्गारादिना भक्षितपश्चात्तापादिरूपः? आमयो रोगो ज्वरादिः? एतानि सर्वाणि प्रददति यच्छन्तीति तथा। एतादृगाहारकर्त्तारो राजसा ज्ञेया इत्यर्थः।