Sbg 17.9 scanand
Sanskrit Commentary By Sri Anandgiri ।।17.9।।राजसप्रीतिविषयमाहारविशेषं दर्शयति -- कट्विति। कटुस्तिक्तः कटुकस्य तीक्ष्णशब्देनोक्तत्वात्? रूक्षो विस्नेहः? विदाही संतापकः। अतिशब्दस्य सर्वत्र योजनमेवाभिनयति -- अतिकटुरिति। दुःखं तात्कालिकी पीडा? इष्टवियोगजं दुःखं शोकः? आमयो रोगः।