Sbg 17.8 scdhan
Sanskrit Commentary By Sri Dhanpati ।।17.8।।तत्र सात्त्विकप्रीतिविषयानाहारानादावुदाहरति -- आयुरिति। आयुश्चिरजीवनं? सत्त्वमन्तःकरणधैर्यत्साहात्मकं? बलं कार्यकरणे शरीरसामर्थ्यं? आरोग्यं नीरोगता? सुखमन्तराह्लादः दर्शनमात्रेण संतोषजन्यः? प्रीतिः परेषामभिसंपन्नानां दर्शनात्परमो हर्षोऽभिरुचिर्वा। यद्वा प्रीतिस्तृप्तिजन्या प्रसन्नता। आयुःसत्त्वबलारोग्यसुखप्रीतीनां विवर्धना विशेषेण वृद्धिकाराः? रस्याः रसोपेताः शर्करादयः? स्त्रिग्धाः स्नेहवन्तो दुग्धादयः? स्थिराः देहे चिरकालस्थायिनः चिरतरशीरोपकारहेतवः? हृद्याः दृष्टादृष्टदोषशून्या हृदयप्रियाः एवंविदा आहाराः सात्त्विकस्य प्रियाः इष्टाः। एतादृशाहारप्रीतिमन्तः सात्त्विकाः ज्ञेयाः सात्त्विकत्वमभिलषद्भिश्चैत् आदेया इत्यर्थः।