Sbg 17.8 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.8।।आहारयज्ञतपोदानानां भेदः पञ्चदशभिर्व्याख्यायते। तत्राहारभेदस्त्रिभिः -- आयुरित्यादिना। आयुश्चिरंजीवनं? सत्त्वं चित्तधैर्यं बलवति दुःखेऽपि निर्विकारत्वापादकं? बलं शरीरसामर्थ्यं स्वोचिते कार्ये श्रमाभावप्रयोजकं? आरोग्यं व्याध्यभावः? भोजनानन्तराह्लादस्तृप्तिः प्रीतिः? भोजनकालेऽनभिरुचिराहित्यमिच्छौत्कट्यं तेषां विवर्धना विशेषेण वृद्धिहेतवः? रस्या आस्वाद्या मधुररसप्रधानाः? स्निग्धाः सहजेनागन्तुकेन वा स्नेहेन युक्ताः? स्थिरा रसाद्यंशेन शरीरे चिरकालस्थायिनः? हृद्या हृदयंगमा दुर्गन्धाशुचित्वादिदृष्टादृष्टदोषशून्याः आहाराश्चर्व्यचोष्यलेह्यपेयाः सात्त्विकानां प्रियाः। एतैर्लिङ्गैः सात्त्विका ज्ञेयाः सात्त्विकत्वमभिलषद्भिश्चैत आदेया इत्यर्थः।