Sbg 17.8 scanand
Sanskrit Commentary By Sri Anandgiri ।।17.8।।सात्त्विकप्रीतिविषयमाहारविशेषमुदाहरति -- आयुरिति। आयुर्जीवनं? सत्त्वं चित्तस्थैर्यं? वीर्यं वा बलं कार्यकरणसामर्थ्यम्? आरोग्यं नीरोगता? सुखमन्तराह्लादः? प्रीतिः परेषामपि संपन्नानां दर्शनात्परमो हर्षस्तासां विवर्धनाः विवर्धयन्तीति व्युत्पत्तेः। रसोपेता रसयितव्याः सरसाः। देहे चिरकालस्थायित्वं चिरशरीरोपकारहेतुत्वम्।