Sbg 17.8 scram
Sanskrit Commentary By Sri Ramanuja ।।17.8।।सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति। सत्त्वमयाः च आहारा आयु र्विवर्धनाः पुनः अपि सत्त्व स्य विवर्धनाः। सत्त्वम् अन्तःकरणम्? अन्तःकरणकार्यं ज्ञानम् इह सत्त्वशब्देन उच्यते।सत्त्वात्सञ्जायते ज्ञानम् (गीता 14।17) इति सत्त्वस्य ज्ञानविवृद्धिहेतुवचनात्। आहारः अपि सत्त्वमयो ज्ञानविवृद्धिहेतुः।तथा बलारोग्य योः अपि विवर्धनाः? सुख प्रीत्योः अपि विवर्धनाः। परिणामकाले स्वयम् एव सुखस्य विवर्धनाः? तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः रस्याः मधुररसोपेताः? स्निग्धाः स्नेहयुक्ताः? स्थिराः स्थिरपरिणामाः? हृद्याः रमणीयवेषाः? एवंविधाः सत्त्वमया आहाराः? सात्त्विक स्य पुरुषस्य प्रियाः।