Sbg 17.8 scsh
Sanskrit Commentary By Sri Shankaracharya ।।17.8।। --,आयुश्च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश्च आयुःसत्त्वबलारोग्यसुखप्रीतयः तासां विवर्धनाः आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः? ते च रस्याः रसोपेताः? स्निग्धाः स्नेहवन्तः? स्थिराः चिरकालस्थायिनः देहे? हृद्याः हृदयप्रियाः आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः।।