Sbg 17.6 scneel
Sanskrit Commentary By Sri Neelkanth ।।17.6।।कर्शयन्तः कृशं कुर्वन्तः। भूतग्रामं करणसमूहम्। अचेतसो मूढाः। मां चान्तःशरीरस्थं भोक्तृरूपेण शरीरान्तःस्थं मां परमेश्वरं वा भोग्यस्य शरीरस्य कृशीकरणेन मदाज्ञालङ्घनेन वा कृशीकुर्वन्तः तान्विद्ध्यासुरनिश्चयान्।