Sbg 17.2 scval

From IKS BHU
Revision as of 15:28, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।17.2।।एवं पृष्टः पुनरपि द्विविधेषु त्रिगुणविवेकेनैव शास्त्रीयश्रद्धादिस्वरूपमाह -- श्रीभगवानुवाच त्रिविधेति। देहाभिमान आसुरः? तद्वतामशास्त्रविधिमुत्सृज्याननुसृत्य वर्तमानानां उभयविधानां जीवानां सा स्वभावजेति। त्रिगुणमयं स्वभावमन्यथा कर्त्तुं शक्तं हि शास्त्रीयं विज्ञानं? तत्तूक्तानां नास्तीति कामकारपदवाच्या निष्ठैव केवलं पूर्वतनस्वभावजा। श्रद्धा सा त्रिविधा भवति सात्त्विकी राजसी तामसी चेति मत्तस्तां श्रृणु।