Sbg 17.2 scjaya
Sanskrit Commentary By Sri Jayatritha ।।17.2।।ननुतेषां निष्ठा तु का [17।1] इति पृष्टे सात्त्विकत्वादिकं वक्तव्यम्? त्रिविधेत्यादिकं तु किमर्थमुच्यते इत्यत आह -- अत इति। यत एवमर्जुनेन वेदविधिमजानतां निष्ठा पृष्टा? अज्ञानं च भेदकं त्रयाणामपि सम्भवात्। न चाज्ञानस्य प्रभेदाः सन्ति? अतः श्रद्धयाऽन्विता इति तद्विशेषणत्वेनोक्तां श्रद्धां सात्त्विकत्वादिना विभज्य तदाश्रयेण तेषां स्वरूपमाहेत्यर्थः।