Sbg 16.19 scsh
Sanskrit Commentary By Sri Shankaracharya ।।16.19।। --, तान् अहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणः द्विषतश् च मां क्रूरान् संसारेषु एव अनेकनरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपामि अजस्रं संततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूरकर्मप्रायासु व्याघ्रसिंहादि योनिषु क्षिपामि इत्यनेन संबन्धः।।