Sbg 16.18 scram

From IKS BHU
Revision as of 15:26, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।16.18।।अनन्यापेक्षः अहम् एव सर्वं करोमि इति एवंरूपम् अहङ्कारम् आश्रिताः? तथा सर्वस्य करणे मद्बलम् एव पर्याप्तम् इति च बलम्? अतोमत्सदृशो न कश्चिद् अस्ति इति च दर्पम्? एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यते इति कामम्? मम ये अनिष्टकारिणः तान् सर्वान् हनिष्यामि इति च क्रोधम्? एवम् एतान् संश्रिताः स्वदेहेषु परदेहेषु च अवस्थितं सर्वस्य कारयितारं पुरुषोत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः कुयुक्तिभिः मत्स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः? अहङ्कारादिकान् संश्रिताः? यागादिकं सर्वं क्रियाजातं कुर्वते इत्यर्थः।