Sbg 16.17 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।16.17।।यक्ष्य इति च यस्तेषां मनोरथ उक्तः स केवलं दम्भाहंकारादिप्रधान एव नतु सात्त्विक इत्यभिप्रायेणाह -- आत्मसंभाविता इति द्वाभ्याम्। आत्मनैव संभाविताः पूज्यतां नीताः नतु साधुभिः कैश्चित्। अतएव स्तब्धा अनम्राः? धनेन यो मानो मदश्च ताभ्यामन्विताः सन्तो नाममात्रेण ये यज्ञास्ते नामयज्ञाः। यद्वादीक्षितः सोमयाजी इत्येवमादिना नाममात्रप्रसिद्धये ये यज्ञास्तैर्यजन्ते। कथम्। दम्भेन नतु श्रद्धया। अविधिपूर्वकं च यथा भवति तथा।