Sbg 16.17 scram

From IKS BHU
Revision as of 15:26, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।16.17।। आत्मसम्भाविताः आत्मना एव सम्भाविताः आत्मना एव आत्मानं सम्भावयन्ति इत्यर्थः। स्तब्धाः परिपूर्णं मन्यमाना न किञ्चित्कुर्वाणाः? कथम् धनमानमदान्विताः -- धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः नामयज्ञैः नामप्रयोजनैः यष्टा इति नाममात्रप्रयोजनैः यज्ञैः यजन्ते? तत् अपि दम्भेन हेतुना यष्टृत्वख्यापनाय? अविधिपूर्वकम् अयथाचोदनं यजन्ते।ते च ईदृग्भूता यजन्ते इत्याह --