Sbg 16.16 scneel

From IKS BHU
Revision as of 15:26, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।16.16।।अनेकं नास्ति एकं चिन्तनीयं यस्य तदनेकं बहुषु विषयेषु पूर्वोक्तेषु लग्नं चित्तं येषां ते अनेकचित्तास्ते च ते विभ्रान्ताश्च किमिदमादौ साधनीयमिदमादौ साधनीयमिति विशेषेण भ्रान्त्याकुला अनेकचित्तविभ्रान्ताः। मोहः असत्स्वपि सद्बुद्धिस्तदेव जालं तेन सम्यगावृताः। प्रसक्ताः प्रकर्षेण लग्नाः। अशुचौ विण्मूत्रादिमये।