Sbg 16.14 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।16.14।।एवं लोभं प्रपञ्च्य तदभिप्रायकथनेनैव तेषां क्रोधं प्रपञ्चयति -- असाविति। असौ देवदत्तनामा मया हतः शत्रुरतिदुर्जयः अत इदानीमनायासेन हनिष्ये च हनिष्याम्यपरान्सर्वानपि शत्रून्। न कोऽपि मत्सकाशाज्जीविष्यतीत्यपेरर्थः। चकारान्न केवलं हनिष्यामि तान् किंतु तेषां दारधनादिकमपि ग्रहीष्यामीत्यभिप्रायः। कुतस्तवैतादृशं सामर्थ्यं त्वत्तुल्यानां त्वदधिकानां वा शत्रूणां संभवादित्यत आह -- ईश्वर इति। ईश्वरोऽहं न केवलं मानुषो येन मत्तुल्योऽधिको वा कश्चित्स्यात् किमेते करिष्यन्ति वराकाः सर्वथा नास्ति मत्तुल्यः कश्चिदित्यनेनाभिप्रायेणेश्वरत्वं विवृणोति -- अहमित्यादि। यस्मादहं भोगी सर्वैर्भोगोपकरणैरुपेतः? सिद्धोऽहं पुत्रभृत्यादिभिः सहायैः संपन्नः? स्वतोऽपि बलवानत्योजस्वी? सुखी सर्वथा निरोगः।