Sbg 16.11 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।16.11।। किंच -- चिन्तामिति। प्रलयो मरणमेवान्तो यस्यास्ताम्। अपरिमेयां परिमातुमशक्यां चिन्तामाश्रिताः। नित्यचिन्तापरायणा इत्यर्थः। कामोपभोग एव परमो येषां ते? एतावदिति कामोपभोग एव परमः पुरुषार्थो नान्यदस्तीति कृतनिश्चयाः? अर्थसंचयानीहन्त इत्युत्तरेणान्वयः। तथाच बार्हस्पत्यं सूत्रम् -- काम एवैकः पुरुषार्थः इति?चैतन्यविशिष्टः कामः पुरुषः इति च।