Sbg 16.11 scsh
Sanskrit Commentary By Sri Shankaracharya ।।16.11।। --, चिन्ताम् अपरिमेयां च? न परिमातुं शक्यते यस्याः चिन्तायाः इयत्ता सा अपरिमेया? ताम् अपरिमेयाम्? प्रलयान्तां मरणान्ताम् उपाश्रिताः? सदा चिन्तापराः इत्यर्थः। कामोपभोगपरमाः? काम्यन्ते इति कामाः विषयाः शब्दादयः तदुपभोगपरमाः अयमेव परमः पुरुषार्थः यः कामोपभोगः इत्येवं निश्चितात्मानः? एतावत् इति निश्चिताः ।।