Sbg 16.7 scval
Sanskrit Commentary By Sri Vallabhacharya ।।16.7।।सर्वात्मना वर्जनार्थमासुरीं विस्तरशो निरूपयति -- प्रवृत्तिमित्यादिद्वादशभिः। प्रवृत्तिमार्गं वेदोक्तं निवृत्तिमार्गं च न विदुरासुराःरुचिस्तेषां न कुत्रचित् इति श्रीमुखोक्तिरियम्। कुतः इत्यत आहन शौचं नापि चाचारो न सत्यं तेषु विद्यते इति मानसकायिकवाचिकदोषसद्भावेन सर्वत्र कर्मादौ तत्प्रतिपादकशास्त्रे च सत्यत्वानङ्गीकारादित्यर्थः।