Sbg 16.5 scdhan
Sanskrit Commentary By Sri Dhanpati ।।16.5।।अनयोः संपदोः फलविभागमाह। दैवी संपत्संसारबन्धनात् विमोक्षायासुरीसंपन्निबन्धाय नियमेन बन्धाय मताभिप्रेता।,एवमुक्तं किमहं दैव्या संपदा युक्तः किंवासूर्या युक्त इत्यलोचनरुपमर्जुनस्यान्तर्गतभावमुपलक्ष्याह। मा शुचः शोकं मा कार्षीः। दैवीं संपदमभिलक्ष्य चातोऽसि भाविकल्याणस्त्वमित्यर्थः। पाण्डवेति संबोधयन्नासूर्या संपद्यन्तर्गतौ शोकमोहावतिशूरस्य दैव्या पंपदा युक्तस्य शोकादिविनिर्मुक्तस्य पाण्डोः पुत्रः दैवीं संपदमभिजातकस्त्वमङ्गीकर्तुमयोग्योऽसीति द्योतयति।