Sbg 16.4 scval
Sanskrit Commentary By Sri Vallabhacharya ।।16.4।।आसुरीं सम्पदमाह -- दम्भ इति। दर्पः कामरूपः? अभिमानो लोभः। चकारैः पूर्वप्रतियोगिनो गृह्यन्ते स्पष्टमन्यत्। एते षट् दोषाः स्वभावतः पूर्वगुणवैरिण इति सर्वथा आसुरजीवस्य भवन्ति। भगवद्वचसि मायावादिनोऽसुराः भगवद्वचोऽननुवर्त्तिस्वभावा एव? अतोऽसुरा मापृस्ष्टाःत्रयः प्राजापत्याः ৷৷. देवा मनुष्या असुराश्च [बृ.उ.5।2।1] इति बृहदारण्यके। पञ्चरात्रेऽपि -- उत्पन्नास्त्रिविधा जीवा देवदानवमानवाः। तत्र देवा मुक्तियोग्या मानुषेषूत्तमा अपि।।अधमा मानुषा ये तु मृतियोग्याः पुनः पुनः। अधर्मा निरयायैव दानवास्तु तमोलयाः इत्युक्तम्। ये सम्भूतिमुपासते मायेत्यसुराः इति श्रुतिष्वपि।