Sbg 16.4 scram
Sanskrit Commentary By Sri Ramanuja ।।16.4।। दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम्। दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः।, अतिमानः च स्वविद्याभिजनाननुगुणोऽभिमानः। क्रोधः परपीडाफलचित्तविकारः। पारुष्यं साधूनाम् उद्वेगकरः स्वभावः। अज्ञानं परावरतत्त्वकृत्याकृत्याविवेकः। एते स्वभावाः आसुरीं संपदम् अभिजातस्य भवन्ति। असुरा भगवदाज्ञातिवृत्तिशीलाः।