Sbg 15.17 scsh

From IKS BHU
Revision as of 15:21, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।15.17।। --, उत्तमः उत्कृष्टतमः पुरुषस्तु अन्यः अत्यन्तविलक्षणः आभ्यां परमात्मा इति परमश्च असौ देहाद्यविद्याकृतात्मभ्यः? आत्मा च सर्वभूतानां प्रत्यक्चेतनः? इत्यतः परमात्मा इति उदाहृतः उक्तः वेदान्तेषु। स एव विशिष्यते यः लोकत्रयं भूर्भुवःस्वराख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति अव्ययः न अस्य व्ययः विद्यते इति अव्ययः। कः ईश्वरः सर्वज्ञः नारायणाख्यः ईशनशीलः।।यथाव्याख्यातस्य ईश्वरस्य पुरुषोत्तमः इत्येतत् नाम प्रसिद्धम्। तस्य नामनिर्वचनप्रसिद्ध्या अर्थवत्त्वं नाम्नो दर्शयन् निरतिशयः अहम् ईश्वरः इति आत्मानं दर्शयति भगवान् --,