Sbg 15.16 scneel
Sanskrit Commentary By Sri Neelkanth ।।15.16।।सर्वशास्त्रहृदयं संगृह्णाति -- द्वाविमाविति। लोके प्रसिद्धौ इमौ द्वावेव पुरुषौ। क्षरो विनाशी स च सर्वाणि भूतानि प्राणवन्ति कर्मक्षये सुप्तिप्रलयकैवल्यादावुपाधिनाशमनु विनाशशीलो जीवो ब्रह्मप्रतिबिम्बभूतो जलार्कोपमः।प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति इति श्रुतेः। कूटस्थो निर्विकारो मायोपाधिरक्षरः। तदुपाधेरकर्मत्वेन नाशासंभवात्। उपाधिदोषेणावशीकृतत्वाच्चासौ न क्षरति स्वरूपान्न च्यवत इत्यक्षरः।