Sbg 15.16 scsh
Sanskrit Commentary By Sri Shankaracharya ।।15.16।। --, द्वौ इमौ पृथग्राशीकृतौ पुरुषौ इति उच्येते लोके संसारे -- क्षरश्च क्षरतीति क्षरः विनाशी इति एको राशिः अपरः पुरुषः अक्षरः तद्विपरीतः? भगवतः मायाशक्तिः? क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः? अक्षरः पुरुषः उच्यते। कौ तौ पुरुषौ इति आह स्वयमेव भगवान् -- क्षरः सर्वाणि भूतानि? समस्तं विकारजातम् इत्यर्थः। कूटस्थः कूटः राशी राशिरिव स्थितः। अथवा? कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः? अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः? संसारबीजानन्त्यात् न क्षरति इति अक्षरः उच्यते ।।आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः --,