Sbg 15.15 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।15.15।।सर्वस्य चेति। किंच सर्वस्य ब्रह्मादिस्थावरान्तस्य प्राणिजातस्याहमात्मा सन् हृदि बुद्धौ संनिविष्टःस एष इह प्रविष्टः इति श्रुतेःअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति च। अतो मत्त आत्मन एव हेतोः प्राणिजातस्य यथानुरूपं स्मृतिरेतज्जन्मनि पूर्वानुभूतार्थविषया वृत्तिर्योगिनां च जन्मान्तरानुभूतार्थविषयापि। तथा मत्त एव ज्ञानं विषयेन्द्रियसंयोगजं भवति। योगिनां च देशकालविप्रकृष्टविषयमप्येवं कामक्रोधशोकादिव्याकुलचेतसामपोहनं च स्मृतिज्ञानयोरपायश्च मत्त एव भवति। एवं स्वस्य जीवरूपतामुक्त्वा ब्रह्मरूपतामाह। वेदैश्च सर्वैरिन्द्रादिदेवताप्रकाशकैरप्यहमेव वेद्यः सर्वात्मत्वात्।इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः इति मन्त्रवर्णात्।एष उह्येव सर्वे देवाः इति च श्रुतेः। वेदान्तकृत् वेदान्तार्थसंप्रदायप्रवर्तको वेदव्यासादिरूपेण। न केवलमेतावदेव वेदविदेव चाहं कर्मकाण्डोपासनाकाण्डज्ञानकाण्डात्मकमन्त्रब्राह्मणरूपसर्ववेदार्थविच्चाहमेव। अतः साधूक्तं ब्रह्मणो हि प्रतिष्ठाहमित्यादि।