Sbg 15.15 scval

From IKS BHU
Revision as of 15:21, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।15.15।।तेषां च सर्वभूतजातस्य परमपुरुषसामानाधिकरण्यनिर्देशे हेतुमाह -- सर्वस्येति। तेषा च सर्वभूतजातस्य चेति। सर्वस्य सकलप्रवृत्तिहेतुज्ञानोदयदेशे हृदि सर्वं स्वसङ्कल्पेन नियच्छन्नहमात्मतया सन्निविष्टः अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा [चित्त्यु.11।2तै.आ.3।11] यः पृथिव्यां तिष्ठन् [बृ.उ.3।7।3] य आत्मनि तिष्ठन् [श.प.ब्रा.14।6] इत्यादिश्रुतेः। अतो मत्तः सर्वेषां स्मृतिः पूर्वानुभूतविषयसंस्कारमात्रजं ज्ञानं? ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः? सोऽपि मत्तः अपोहनं तयोः प्रमोषश्च मत्तः? ब्रह्मवादे स्वत एव सर्वसत्त्वात्। अपोहनमज्ञाननिवृत्तिरिति केचित्। यद्वा अपकृष्टमूहनं इदं प्रमाणमित्थं प्रवृर्त्तितुमर्हतीति प्रमाणप्रवृत्त्यर्हताविषयसामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम्? तच्चापि मत्त एव। यतो वेदैश्च सर्वैरहमेव सर्वात्मना वेद्यः। ब्रह्मवादेऽग्निसोमसूर्यवाय्विन्द्रादीनां मदन्तर्यामिकत्वेन मद्रूपत्वात्तत्प्रतिपादनपरोऽपि वेदो मामेवाह सर्वम्।न च वेदान्तभूतैरुपनिषद्भिरेक एव प्रतिपाद्यते सर्वापवादमुखेनेति वाच्यम्? सर्वापवादमुखेन प्रतिपादनस्य जीवकल्पितत्वात्। न हि वेदान्तं सर्ववेदनिर्णयसिद्धान्तं मत्तोऽन्यः कोऽपि जानाति? मयैव कृष्णद्वैपायनात्मना ब्रह्मवादानुसारेण जीवकल्पिताध्यारोपवादनिरसनद्वारा तत्त्वनिश्चयादित्यर्थः। किमध्यारोपणमपोहनं च जीवकल्पितं न वा इति विचारणीयम्। अन्त्ये श्रुतिविरोधः? आद्ये इष्टापत्तिः? भगवत्कृतत्वे जगतः अलीकत्वस्यावचनीयत्वात्। विपरीतकल्पना च जीवकृतेति सिद्धान्तः? यत्तु माययैवेत्युच्यते तत्तु ब्रह्मवादे मायाऽपि न ततोऽन्यत्तत्त्वमिति समाधेयम्? सूत्रभाष्ये मायायाः पृथक्तया निरासनात्।आनुमानिकमप्येकेषामिति चेत् [ब्र.सू.1।4।1] इत्यादौ। तत्र चाव्यक्तस्यैवाक्षर इति नामोक्तम्। ब्रह्मवादे क्षरोऽक्षरस्तदतीत इत्येव स्वयं रमते स एव च सर्वशक्तिमान् स्वाज्ञाकारिणीं स्वतः पृथग्भावितां स्वीयमायां स्वभावकर्मसंज्ञां वा सदंशभूतां चिदंशभूतेषु क्षरेषु संयोजयति रमणार्थं? तदा प्रवाहः सिद्ध्यति अक्षरात्मत्वज्ञानतत्साधनशक्त्युदयनद्वारा रमणार्थं मर्यादा केवलं क्षराक्षरातीतस्वरूपप्रपञ्चेन रमणार्थं सृष्टेषु स्वप्रतिबिम्बभूतेषु तु भक्त्यात्मसु स नित्यं रममाण एवात्मारम इति पुष्टिरितिवेदान्तकृद्वेदार्थविदेव चाहं? नान्यः इत्युक्त्या मत्त एव सर्ववेदान्तानां सारमर्थं,शृण्विति पूर्वोक्तस्य सर्वस्य भाष्यमाभाष्यते भगवता भाष्यरूपत्त्वादस्याध्यायषट्कस्य।