Sbg 15.14 scval
Sanskrit Commentary By Sri Vallabhacharya ।।15.14।।किञ्च अहं वैश्वानर इति।वैश्वांनरः साधारणशब्दविशेषात् [ब्र.सू.1।2।24] इति सूत्रेषु श्रौतपदनिदर्शनार्थमुक्तम्। स्वस्यैव व्यापकतानिर्देशेन च नामरूपात्मतामाह -- वैश्वानरो वागधिपतिर्जाठरोऽहं? तत्र कार्यमाह पचामीति। तैर्भुक्तं भक्ष्यभोज्यलेह्यपेयात्मकं चतुर्विधमन्नं प्राणापाननिर्दिष्टव्यक्तिभेदसंयुक्तः पचामि। अत्र परमपुरुषविभूतिरूपाः सूर्यसोमवैश्वानरोऽहं रविः सोमोऽन्तर्वैश्वानरो भूत्वेति सामानाधिकरण्येन निर्दिष्टाः।