Sbg 15.11 scdhan
Sanskrit Commentary By Sri Dhanpati ।।15.11।।न्यायानुग्रहीतशास्त्रेऽनिशं श्रवणादिना यत्नं कुर्वतामपि केचित्पश्यन्ति केचिन्नेति तत्र को हेतुरित्यपेक्षायामाह। यतन्तः क्वचिद्यन्त्रं कुर्वन्तो योनिनश्च समाहितचित्ता एनं प्रकृतमात्मानमात्मनि स्वस्यां बुद्धावस्थितं पश्यन्त्ययमहमस्मीत्युपलभन्ते। यतन्तोऽपि शास्त्रादिप्रमाणैर्यत्नं कुर्वन्तोऽप्यकृतात्मानस्तपसेन्द्रियजयेन च दुश्चरितादनुपरता अशूद्धान्तःकरणा अचेतोऽविवेकिन एनमात्मानमुक्तविशेषणं न पश्यन्ति यत्नसाम्येप्यात्मदर्शने तददर्शने च चित्तशुद्धस्तदशुद्धेश्च हेतुत्वमिति भावः।