Sbg 15.11 scval
Sanskrit Commentary By Sri Vallabhacharya ।।15.11।।दुर्विज्ञेयश्चायं यतो विवेकिष्वपि केचित्पश्यन्ति केचिन्न पश्यन्तीत्याह -- यतन्त इति। योगिनश्चित्तवृत्तिनिरोधकाः पश्यन्ति? अन्ये तु यतन्तोऽप्यकृतचित्ता नैनं पश्यन्ति अतएवाचेतसो मन्दमतयः।