Sbg 15.11 scanand
Sanskrit Commentary By Sri Anandgiri ।।15.11।।ज्ञानचक्षुःशब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तं तत्किमिदानीं शास्त्रमात्रेण न्यायानुगृहीतेनात्मानं पश्यन्ति नेत्याह -- केचित्त्विति। प्रयत्नः श्रवणमननात्मकः शास्त्रादिप्रमाणैर्यतन्तोऽपीति संबन्धः। असंस्कृतात्मत्वं प्रकटयति -- तपसेति। दुश्चरितादविरतिफलं कथयति -- अशान्तेति। अशुद्धबुद्धीनामविवेकिनां सदपि श्रवणादि न फलवदिति मत्वाह -- प्रयत्नमिति।