हेत्वाभासलक्षणप्रकरणम्

From IKS BHU
Revision as of 13:58, 6 February 2025 by imported>Gagan (Created page with "सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः 1/2/4 अनैकान्तिकः सव्यभिचारः 1/2/5 सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः 1/2/6 यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः 1/2/4

अनैकान्तिकः सव्यभिचारः 1/2/5

सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः 1/2/6

यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः 1/2/7

साध्याविशिष्टः साध्यत्वात्साध्यसमः 1/2/8

कालात्ययापदिष्टः कालातीतः 1/2/9