Sbg 15.7 scneel

From IKS BHU
Revision as of 15:18, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।15.7।।ननु यदि सूर्याद्यभास्यज्योतीरूपस्त्वंक्षेत्रज्ञं चापि मां विद्धि इति स्वस्यैव क्षेत्रज्ञत्वं ब्रूषे तर्हि क्षेत्रज्ञस्य सतस्तव घटादिप्रकाशे किमिति सूर्याद्यपेक्षा दृश्यते। नहि स्वयं ज्योतीरूपः स्वविषयावभासने ज्योतिरन्तरमपेक्षते दीपादिष्वदर्शनादित्याशङ्क्याह त्रिभिः -- ममैवेति। यद्यस्मादीश्वरो जगत्स्रष्टा शरीरं अवाप्नोतिस एष इह प्रविष्ट आनखाग्रेभ्यःतत्सृष्ट्वा तदेवानुप्राविशत् इत्यादिश्रुतिभ्य ईश्वर एव शरीरधारी तथा यद्यस्माद्धेतोः। अपिशब्दोऽवधारणार्थे। चः समुच्चयार्थे।कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत इति श्रुतेः। प्राणधारणेनोपाधिना ईश्वर एव च उत्क्रामति। ततो हेतुद्वयाज्जीवलोके संसारे यो जीवभूतः प्राणी स सनातनः सर्वदैकरूपोऽहमेवेति वक्तव्येयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्व एव आत्मानो व्युच्चरन्ति इति वह्निविस्फुलिङ्गन्यायेन स ममैवांश इत्यंशांशिभावोक्तिः। यद्यपि वह्नौ भेदः परिमाणं च स्वगतं न दृश्यते तथापि तूपाधिगतमेव तदुभयं तत्राप्युपचर्यते अयमग्निरस्मादग्नेर्भिन्नः अयमस्य स्फुलिङ्गः अयमस्मादल्प इति।एवमस्थूलमनण्वह्रस्वमदीर्घम् इति श्रुतेश्चतुर्विधपरिमाणशून्ये ब्रह्मणि ममैवांश इत्यंशांशिभावेन भेदोऽल्पत्वमहत्त्वे चोपचारादौपाधिके ध्येये। तथा च श्रुतिःबुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः इतिसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः इति च। तथा च विस्फुलिङ्गो वह्निरेव न तु वन्ह्यंशः? एवं जीवोऽपि ब्रह्मैव न तु ब्रह्मांशःब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कितवा उत इति दाशादिष्वपि पिण्डेषु गोत्वस्येव कात्स्न्र्येन एकैकस्मिन् ब्रह्मभावपरिसमाप्तिदर्शनात्। निरंशेंऽशांशिकल्पनाया अयोग्यत्वाच्च स एवं जीवभूत ईश्वरो ममैवांश इवांशो,रूपभेदो मनः षष्ठं येषु तानि मनसा सह षडिन्द्रियाणि प्रकृतिस्थानि इन्द्रियाणां प्रकृतिः स्वभावो विषयप्रावण्यं तत्र स्थितानि। कर्षति सुप्तिप्रलयसमकालेषु संकोचयति।