Sbg 15.7 scang
Sanskrit Commentary By Sri Abhinavgupta ।।15.7।।ममेति। ब्रह्मण एवायमंश इति। अज्ञानधर्मतया परिपूर्णस्य असंवेदनात् चेतनताऽनिवृत्तेश्च अंशत्वमुपचरितम् न (?N omit न) पुनर्वस्तुतः अंशवत्तोपपद्यते। प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तः इति हि श्रुतिः (N श्रुतेः)। एषैव च औपचारिकता यथावसरं योजनीया इति न विप्रतिपत्तव्यम्।