Sbg 15.2 scneel
Sanskrit Commentary By Sri Neelkanth ।।15.2।।अधश्च मानुषेभ्यस्तिर्यक्स्थावरादयोऽवीच्यन्ताः। ऊर्ध्वं च मानुषेभ्य एवोपरि च गन्धर्वयक्षादिहिरण्यगर्भपर्यन्तं प्रसृताः प्रसरं प्राप्तास्तस्य शाखाः गुणैः सत्वादिभिः प्रकर्षेण वृद्धाः गुणप्रवृद्धाः। विषया एव रञ्जकतया कोमलपल्लवरूपाणि प्रवालानि यासां ताः। संसारवृक्षस्योपरिमूलं ब्रह्म उक्तम्। अधश्च इह मनुष्यलोके च तस्य मूलानि वासनारूपाणि अवान्तरमूलानि अनुसन्ततानि प्रवाहनित्यानि। यतः कर्मानुबन्धीनि कर्मैव धर्माधर्माख्यं अनुबन्धः पश्चाद्भावि येषां तानि कर्मानुबन्धीनि वासनाभ्यः कर्माणि कर्मभ्यो वासना इत्यनवरतसंतानोऽयं वृक्ष इत्यर्थः।