Sbg 15.2 scmad
Sanskrit Commentary By Sri Madhavacharya ।।15.2।।अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीत्यधश्चोर्ध्वं च प्रसृताः गुणैः सत्त्वादिभिः प्रतीतिमात्रसुखत्वात्प्रवाला विषयाः। मूलानि भगवद्रूपादीनि। भगवानपि कर्मानुबन्धेन हि फलं ददाति। तथा च भाल्लवेयशाखायाम् -- ब्रह्म वाऽस्य पृथङ्मूलं प्रकृतिः समूलं सत्त्वा दयोऽर्वाचीनमूलम्। भूतानि शाखा छन्दांसि पर्णानि देवा नृतिर्यञ्चश्च शाखाः। पत्रेभ्यो हि फलं जायते। मात्राः शिफाः। मुक्तिः फलं अमुक्तिः फलम्। मोक्षो रसोऽमोक्षो रसः। अव्यक्ते च शाखाः व्यक्ते च शाखाः। अव्यक्ते च मूलं व्यक्ते च मूलम्। एषोऽश्वत्थो गुणालोलपत्रो न स्थीयते न स्थीयते। न ह्येष कदाचनान्यथा जायते नान्यथा जायते इति।