Sbg 15.2 scjaya
Sanskrit Commentary By Sri Jayatritha ।।15.2।।अधश्चेत्येतद्धटयति -- अव्यक्तेऽपी ति। अनेन तस्य शाखा भूतान्यधश्च स्वापेक्षयाऽप्रकृष्टे शरीरादौ कार्ये चोर्ध्वं च उत्तमे कारणेऽव्यक्ते च प्रसृताः। सूक्ष्मरूपेण सन्तीति व्याख्यातं भवति।प्रसृताः इत्यनेनोच्यन्त इति शेषः। अधः पातालादावूर्ध्वं स्वर्गादावित्यादिव्याख्याने प्रकृतप्रक्रिये प्रसज्येते? गुणशब्दस्यानेकार्थत्वात्।गुणप्रवृद्धाः इत्यत्र विवक्षितमर्थमाह -- गुणैरि ति। अर्वाचीनमूलैर्हि शाखाः प्रवृद्धा भवन्ति। सत्त्वादयश्चार्वाचीनमूलानीति वक्ष्यन्ते। विषयाणां प्रवालत्वं घटयति -- प्रतीतिमात्रे ति। प्रतीतिसमयमात्रसुखहेतुत्वादित्यर्थः। विमर्दनासहत्वसाम्यादिति भावः। विषयाः प्रवाला इति सम्बन्धः।अधश्च मूलानि इत्यत्र रागद्वेषादिवासनामूलानीति व्याख्यानमसत्? प्रक्रमविरोधादिति भावेनाह -- मूलानी ति। आदिपदेन जडाजडप्रकृत्योः सत्त्वादीनां च ग्रहणम्? तेषामपिऊर्ध्वमूलं इत्यत्र विवक्षितत्वात्। ननु भगवतः कथं कर्मानुबन्धित्वं इत्यत आह -- भगवानपी ति। अत्र कर्मानुबन्धित्वं नाम कर्मानुसारित्वम्। तच्च कर्मसम्बन्धेन फलदातृत्वाद्भगवतोऽपि युक्तमित्यर्थः। यद्वा कर्मैवानुबन्धश्चरमभाविकारणं कर्मानुबन्धः? तद्वत्त्वं कर्मानुबन्धित्वम्। तदपि कर्मानुबन्धेन फलदातृत्वाद्भगवतो युज्यत इति। श्लोकद्वयार्थे श्रुतिसम्मतिं चाह -- तथा चे ति। अस्य जगद्वृक्षस्य पृथग्वृक्षानन्तर्गतम्। सहभूतं मूलं समूलं अर्वाचीनमूलं भूम्यन्तर्गतपादाख्यं छन्दांसीत्यस्योपपादनम् -- पत्रेभ्यो ही ति। देवादिशरीराणि चोपशाखाः। मात्राः भूतसूक्ष्माणि। शिफाः जटाः। मुक्त्यमुक्तिशब्दाभ्यां मोक्षतदितरपुरुषार्थसाधने ज्ञानकर्मणी उच्येते। फलमवान्तरम्। मोक्षामोक्षशब्दाभ्यां तु पुरुषार्थावेव। रसः श्रेष्ठं फलम्। गुणा विषयाः। अलोलपत्राणि प्रवालपर्णानि यस्यासौ तथोक्तः। न स्थीयत इत्यनेनाश्वत्थशब्दार्थकथनम्। तत्किं क्षणिकः न स्थीयते प्रवाहव्ययो नास्तीत्यर्थः। तस्योपपादनम् -- न ही ति। द्विरुक्तिस्तात्पर्यार्था।