Sbg 15.2 scram

From IKS BHU
Revision as of 15:17, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।15.2।। अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके। ब्रह्मलोकमूलस्य अस्य वृक्षस्य मनुष्याग्रस्य अधः मनुष्यलोके मूलानि अनुसंततानि तानि च कर्मानुबन्धीनि। कर्माणि एव अनुबन्धीनि मूलानि अधो मनुष्यलोके च भवति इत्यर्थः। मनुष्यत्वावस्थायां कृतैः हि कर्मभिः अधो मनुष्यपश्वादयः ऊर्ध्वं च देवादयो भवन्ति।