Sbg 15.1 scdhan
Sanskrit Commentary By Sri Dhanpati ।।15.1।।यस्मान्मदधीनं कर्मिणां कर्मफलं ज्ञानिनां ज्ञानफलं चफलमत उपपत्तेःततो ह्यस्य बन्धविपर्ययौ इतिन्यायाभ्यामतो भक्ति योगेन मां सेवन्ते ते मत्प्रासादाज्ज्ञानप्राप्तिक्रमेण गुणातीति मोक्षं गच्छन्तीतं आत्मनस्तत्त्वमेव सम्यग्जानन्ति ते तेन ज्ञानेन गणातीताः सन्तः मुक्तिं गच्छन्तीति किमु वक्तव्यमित्यतोऽर्जुनेनापृष्टमप्यात्मनस्तत्त्वं विवक्षुर्भगवानुवाच -- ऊर्ध्वमूलमित्यादि। तत्रादौ वृक्षरुपकल्पनया वैराग्यार्थं संसारस्वरुपं वर्णयति। भगवत्तत्वज्ञाने संसाराद्विरक्तस्यैवाधिकारात्। यत्तु केचित्पूर्वाध्यायेन भगवता संसारबन्धहेतून्गुणान् व्याख्याय तेषामत्ययेन ब्रह्मभावो मोक्षो मद्भजनेन लक्ष्यत इति मां चेत्यादिनोक्तं तत्र मनुष्यस्य तव भक्तियोगेन कथं ब्रह्मभाव इत्याकाङ्क्षायां स्वस्य ब्रह्मरुपताज्ञापनाय सूत्रभूतो ब्रह्मणो हीति श्लोको भगवतोक्तः। अस्य सूत्रस्य वृत्तिस्थानीयोयं पञ्चदश आरभ्यते। भगवतः श्रीकृष्णस्य हि तत्त्वं ज्ञात्वा तत्प्रेमभजनेन गुणातीतः सन् ब्रह्मभावं कथमाप्नुयात् लोक इति। तत्र ब्रह्मणो हि प्रतिष्ठाहमित्यादिभगवद्वचनमाकर्ण्य मत्तुल्यो मनुष्योऽयं कथमेवं वदतीति विस्मयाविष्टप्रतिमया लज्जया च किमपि प्रष्टुमक्नुवन्तमर्जनमालक्ष्य कृपया स्वस्वरुपं विवक्षुः श्रीभगवानुवाचेत्यवतारयन्ति तन्नादर्तव्यम्।अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोपि सन्।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।मूढोयं नाभिजानाति लोको मामजमव्ययं।मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मनः संसिद्धिं परमां गताः।मया ततमिदं सर्वं जगदव्यक्तमूर्तिनामयाध्यक्षेण प्रकृतिः सूयते सचराचरंन मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि दवानां महर्षिणां च सर्वशः।अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इत्यादिबहुशः श्रुतवतः।परं ब्रह्म परं धाम पवित्रं परमं भवान्नहि ते भगतन्व्यक्तिं विदुर्देवा न दानवाःत्वमक्षरं परमं विदतव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मेअनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरुप इत्याद्युक्तवतो विश्वरुपं दृष्टवतश्चार्जुनस्य एवमभिप्रायवर्णनानौचित्यात्। ऊर्ध्वं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्वाच्चोच्छ्रितमुत्कृष्टं मायाशक्तिमत् ब्रह्म मूलं यस्य सोऽयं संसार ऊर्ध्वमूलस्तमधः सर्वकारणान्मायाशक्तिमतो ब्रह्मणो निकृष्टा महदहंकारतन्मात्रादयः शाखाः यस्य सोऽधःशाखस्तं श्वोऽपि न स्थास्यतीत्यश्वत्थः क्षणभङ्गुरस्तमश्वत्थं मायामयं संसारवृक्षं अव्ययं संसारमायाया अनादिकालप्रवृत्तत्वादनाद्यनन्तदेहादिसंतानाश्रयः तत्त्वज्ञानमन्तरेणानुच्छेद्यो यः सोऽव्ययः संसारवृक्षस्तं प्राहुः श्रुतिस्मृतिवादाः कथयन्ति। तथाहिऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः इत्यादिश्रुतिवादाःअव्यक्तमूलप्रभवस्तस्यैवानुग्रहोत्थितः। बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः।।महाभूतविशाखश्च विषयैः पत्रवांस्तथा। धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः।।आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः। एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य तत्।।एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना। ततश्चान्त्यगतिं प्राप्य तस्मान्नावर्तते पुनः इत्यादयः स्मृतिवादाः। आजीव्य उपजीव्यः ब्रह्माधिष्ठितत्वात्। ब्रह्मवृक्षः ज्ञानं विना छेत्तुमशक्यत्वेनानादित्वाच्च। सनातनश्चिरंतनः। तच्च ब्रह्मणः परस्यात्मनो वनं वननीयं संभजनीयमत्र हि सर्वं प्रतिष्ठितं तस्य वृक्षस्य संसाराख्यस्य तदेव सारभूतं? सारभूतं? अथवास्य वृक्षस्यानवच्छिन्नस्य संसारमण्डलस्य तदेव ब्रह्मवनमिव वनं वननीयं संभजनीयं। नहि ब्रह्मातिरिक्तं संसारस्यास्पदमस्ति। ब्रह्मैवाविद्यया संभवतीत्यभ्युपगमादित्यर्थः। तस्मादब्रह्मगतिरुपान्मोक्षात्। स्पष्टमन्यत्। असेव्यफलमश्रुतां वीनां सुपर्णानां जीवानामज्ञनामयो गतिर्यस्मिन्नसौ व्ययः न विद्यते व्ययो यस्मादित्यव्ययः।तयोनन्यः पिप्पलम् इति श्रुतेरित्यर्थः। अनेन सुज्ञैरसेव्यफलत्वं ध्वन्यते। यद्वा पक्षिसामान्यवाचकविशब्देन पक्षिविशेषा हंसा लक्ष्यन्ते तेषामयः प्रचारस्तद्रहितः। नहि हंसा अश्वत्थे व्याप्रियन्ते संन्यासिनो वा जगद्विषय इति कल्पना तु श्रुत्याद्यननुगुणा सर्वज्ञानां न शोभते इत्यत आचार्यैर्न प्रदर्शिता। अत्र ऊर्ध्वमूलमधः शाखं मिथ्याभूतं जले प्रतिबिम्बितं पुनःपुनः परिदृश्यमानत्वादव्यमैन्द्रजालिकोपदर्शितमेदादृशं वाश्वत्थम्। संसारवृक्षस्य मिथ्यात्वबोधनायोपमानीकृत्येयं रुपककल्पना। तेनोर्ध्वमूलस्याधःशाखस्य क्षणभङग्ुरस्य माया मयस्याव्ययस्याश्वतथस्यैवाभावाद्रूपकासंगतिरिति न शङ्कनीयम्। केचित्तु गङ्गातरङ्गनुद्यमानोत्तुङ्गतीरतिर्यङ्निपतितः प्रबलतरपवनोन्मूलितः पतिपयमूलव्याप्तपातालः ऊर्ध्वस्थिबहुमूलो भूमिस्थकतिपयशाखः उपरिस्थितबहुशाखः अधोमूलबलेन स्थितत्वात् अव्ययस्तादृशमश्वत्थमुपमानीकृत्येयं रुपककल्पनेति वर्णयन्ति। यस्य संसारवृक्षस्य च्छादनाद्रक्षणात् छन्दांसि ऋग्यजुःसामलक्ष्णानि पर्णनीव पर्णानि? यथा वृक्षस्य परिरक्षणार्थानि पर्णानि तथा कर्मकाण्डानि च्छन्दांसि धर्माधर्मतद्धेतुफलप्रकाशनार्थत्वात् संसारवृक्षस्य परिरक्षणार्थानीत्यर्थः। छादनं प्रावरणमित्यर्थे त्वर्थवादयुक्तानां छन्दसां तन्निष्ठदोषप्रावरणार्थत्वं बोध्यम्। तं यथोक्तं संसारवृक्षं भङगुरं मायामयं साधिष्ठानं यो वेद जानाति स वेदवित् वेदार्थज्ञः। समूले संसारवृक्षे सर्वं ज्ञेयमन्तर्भवतीति तस्य ज्ञाता वेदार्थवित्त्वात् सर्वज्ञो भवतीति समूलसंसारवृक्षज्ञानं यत्नेन संपाद्यमिति बोधनाय तज्ज्ञानं स्तौति।